________________
चतुर्थ
योगशास्त्रम्
प्रकाश
1५८४॥
द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीति चाहुषं मनीषिणः ॥ १॥ उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितौ ॥ २॥ कः सुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत् ? । मोक्षं को नाप्नुयाद् रागद्वेषौ स्यातां न चेदिह ॥३॥ रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः। तयोरेकतरत्यागे परित्यक्तावुभावपि॥४॥दोषाः स्मरप्रभृतयो रागस्य परिचारकाः। मिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः ॥५॥ तयोर्मोहः पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोषपितामहः ॥६॥ एवमेते त्रयो दोषा नातो दोषान्तरं कचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥७॥ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनावभासते ॥८॥ अराजकमहो! विश्वं यदेभिः पश्यतोहरैः । हियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनाम् ॥ ९॥ ये जन्तवो निगोदेषु येऽपि चासनमुक्तयः । सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ॥१०॥ मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा । येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ॥११॥ दोषक्षयक्षमाणां हि किमुपेक्षा क्षमाऽर्हताम् । जगद्दाहकरं यन शान्तं दोषप्रदीपनम् ॥२२॥ व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः। लोकद्वयापकारिभ्यो रागारिभ्यो भृशं यथा ॥१३॥ वातिसंकटमहो! योगिभिः समुपाश्रितम् । रागद्वेषौ व्याघ्रसिंहौ पार्श्वतो यस्य तिष्ठतः ॥१४ ॥४८॥
अथ रागद्वेषजयोपायमुपदिशतिअस्ततन्द्रैरतः पुंभिनिर्वाणपदकातिभिः । विधातव्यः समत्वेन रागद्वेषद्विषजयः ॥ ४९ ॥
यत एवंविधौ रागद्वेषौ, अतः कारणादस्ततन्द्रनिरस्तप्रमादैः पुभिः पुरुषधर्मोपेतयोगिभिः, किंविशिष्टैः ?
૧૮જા