________________
योगशास्त्रम्
चतुर्थ
॥५८३॥
प्रकाशा
ESEGG
अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाहआत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम्। रागादिभिः समाक्रम्य परायत्तं विधीयते ॥४६॥
आत्मायत्तमपि आत्मनि निमग्नमपि स्वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मूह च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥४६ ॥ तथारक्ष्यमाणमपि स्वान्तं समादाय मनार मिषम् । पिशाचो इव रागाद्याश्छलयन्ति मुहर्मुहुः॥४७॥
रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्रतन्त्रप्रायः स्वान्तं भावमनः समादाय पुरस्कृत्य मनाय मिषं स्वल्पं छलं प्रमादरूपं,, छलयन्ति-आत्मवशं कुर्वन्ति । क एते ? रागादयः । क इव ! पिशाचा इव । मुहर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरक्षमपि साधक छलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥ ४७ ॥ तथारागादितिमिरध्वस्तज्ञानेन मनसा जनः। अन्धेनान्ध इवाकृष्टः पात्यते नरकावटे ॥४८॥
रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमक्ष्णोविप्लवः तेन ध्वस्तं ज्ञानं तत्वालोको यस्य तेन तथाविधेन मनसा आकृष्टो जनो नरकावटे नरककूपे पात्यते । केन क इव ? अन्धेनान्ध इव रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात् । ततो यथाऽन्धेनान्धः समाकृष्यावटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । अत्रान्तरश्लोकाः
ASTRAMADHAGESS
1५८३॥