________________
योग
शास्त्रम्
॥५८२॥
१ सव्वे माहति वह सो किण्डलेसपरिणामो । एवं कमेण सेसा जा चरमो मुकलेसाए || १० || एतस्वाद्यास्तिस्रोऽप्रशस्तोः, उत्तराः प्रशस्ताः एताश्च मनुष्याणां परिवर्तमाना भवन्ति । ततश्च यदा उत्तराtra आत्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति तदा तदनुरूपासु गतिष्वात्मा प्रयाति । तत्र कृष्णनीलकापोत लेश्यापरिणतो नरकेषु तिर्यक्षु चोत्पद्यते । पीतपद्मशुक्ललेश्यापरिणतस्तु मनुष्येषु देवेषु चोत्पद्यते । यदाहुर्भगवन्तः – “२ जलेसे मरइ तल्लेसेमु उववज्जइ । " लौकिकास्त्वाहुः'अन्ते च भरतश्रष्ठ ! या मतिः सा गतिर्नृणामिति " । अत्र यदि मतिश्चेतनामात्र तदा या मतिः सा गतिरिति कि केन संगतम् ? । अथाशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तदमेव पारमर्षं वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता । ४४ ॥
..
इदानीं मनः शुद्धिनिमित्तमीषत्करमुपायान्तरमुपदिशति -
मनः शुद्धयै च कर्तव्यो रागद्वेषविनिर्जयः । कालुष्यं येन हित्वात्मा स्वरूपेऽवतिष्ठते ॥४५॥
मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो रागद्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोफिलीकरणेन अनुदितयोश्वानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ।। ४५ ।।
(१) सर्वान् मारयतेति वर्त्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषा यावच्चरमः शुक्ललेश्यायाम् ॥ १० ॥ (२) यल्लेश्यो म्रियते तासु लेश्या उत्पद्यते ।
चतुर्थ
प्रकाशः
॥५८२ ॥