________________
योगशास्त्रम्
६००
क्षणात् । अप्यकस्माद्विसृमरैरधौघैर्मलिनैर्घनैः ॥ ७४ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ ७५ ॥ विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया । अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥७६॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥७७॥ पदार्थग्रहणेऽकस्माद् भवन्त्यपदुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥७८॥ गर्भवासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ते परानपि ॥ ७९ ॥ निश्चितच्यवनाश्विनैर्लभन्ते न रतिं कचित् । विमाने नन्दने वाप्यामङ्गारालिङ्गिता इव ॥ ८० ॥ हा ! प्रिया ! हा ! विमानानि ! हा वाप्यो ! हा ! सुरदुमाः । क द्रष्टव्याः पुनर्यूयं हतदैववियोजिताः ? ॥ ८१ ॥ अहो ! स्मितं सुधावृष्टिरहो ! विम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ||८२ ॥ हा ! रत्नघटिताः स्तम्भाः हा श्रीमन्मणिकुट्टिम ! | हा ! वेदिका ! रत्नमय्यः ! कस्य यास्यथ संश्रयम् ? ॥ ८३ ॥ हा ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः ॥ ८४|| हे ! पारिजात ! मन्दार ! सन्तान ! हरिचन्दन ! | कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ||८५ || हा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हाsशुचिरसास्वादः कर्तव्यो मयका मुहुः || ८६|| हहा हा! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विसोढव्यं बद्धेन निजकर्मणा ॥८७॥ रतेरिव निधानानि क तास्ताः सुरयोषितः ? । काशुचिस्यन्दबीभत्सा भोक्तव्या नरयोषितः ? ||८८ || एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ||८९|| (नवभिः कुलकम् ।। ) एवं नास्ति सुखं चतुर्गतिजुपामप्यत्र संसारिणां दुखं केवलमेव मानसमथो शारीर
चतुर्थ
प्रकाशः
६००