________________
योगशास्त्रम्
योगगर्भस्तुतिः
॥१३॥
यत्रासीत्परमेश्वरः।।२८॥ निष्कारणजगबन्धुं निराबाधं तथास्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥२९।। गी गपांसनः पांशुवृष्टिं दुष्टोऽतनिष्ट सः। अकाण्डघटितारिष्टामुपरिष्ठाजगत्प्रभोः॥३०॥ विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः। पिदधे पांशुपूरेण सर्वाङ्गीणं जगत्प्रभुः ॥३१॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांशुभिः । यथा समभवत्स्वामी निश्वासोच्छ्वासवर्जितः ॥३२॥ तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि॥३३॥ अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वाङ्गपीलिकाः ॥३४॥ प्राविशन्नेकतोऽङ्गेषु स्वरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डायैः सूच्यो निवसनेष्विव।।३५।। निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् ॥३६॥ तेषामेकप्रहारेण रक्तैर्गोंक्षीरसोदरः । क्षरद्भिरभवन्नाथः सनिझर इवाद्रिराट् ॥३७॥ तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः। चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः॥३८॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः। ततस्ताः समलक्ष्यन्त रोमाणीव सहोत्थिताः॥६९॥ ततोऽप्यविचलच्चित्ते योगचित्ते जगद्गुरौ । स महावृश्चिकांश्चके ध्यानव्रश्चननिश्चयी॥४०॥ प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणैः। तेऽभिन्दन भगवद्देहं लालार्कुटकण्टकैः ॥४१॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्कलः। सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ॥४२॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डैस्त्रोटयन्तो मांसखण्डान्यपातयन्॥४३॥तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान । अत्युत्कट फटाटोपान् कोपात्प्रायुक्त पन्नगान॥४४||आशिरःपादमापीडय महावीरं महोरगाः। अवेष्टयन्महावृक्षकपिकच्छुलता इव।।४५।। प्रजघ्नुस्त तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि
I
॥१३॥