________________
योगशास्त्रम्
योगगर्भ स्तुतिः
॥१२॥
उत्थाय पादुके त्यक्त्वोत्तरासङ्गं विधाय च॥१०॥जान्वसव्यं भुवि न्यस्य सव्यं च न्याय किश्चन । शकस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः॥११।। समुत्थाय च सर्वाङ्गोदश्चद्रोमाञ्चकञ्चकः। शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम्॥१२॥ भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः। श्रृणुत श्रीमहावीरस्वामिनो महिमाद्भतम्॥१३॥ दधानः पश्च समितीर्गुप्तित्रयपविवितः। क्रोधमानमायालोभानभिभूतो निराश्रवः॥१४॥ द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधी रुक्षकपुरलन्यस्तनयनो ध्यानमास्थितः॥१५॥ अमरैस्सुरैयक्ष रक्षोभिरूरगैनरैः। त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि॥१६॥ इत्याकर्ण्य वचः शाकं शक्रसामानिकः सुरः। ललाटपट्टयटितभृकुटीमङ्गभीषणः॥१७॥ कम्पमानाधरः कोपाल्लोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत्॥१८॥ मत्यः श्रमणामात्रोऽयं यदेव देव वर्ण्यते । स्वच्छन्द सदसद्वादे प्रभुत्वं तत्र कारणम् ॥१९॥ देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभोः । कथं धायेत हृदये धृते वा प्रोच्यते कथम् ॥२०॥ रुद्धान्तरिक्षः शिखरैर्मूले रुद्धरसातलः। यः किलोदस्यते दोष्णा सुमेरुलॊष्टलीलया ॥२१॥ सकुलाचलमेदिन्याःप्लावनव्यक्तवैभवः। येषामेषोऽपि गण्डूषमुकरोमकराकरः।२२। अप्येक जदण्डेन प्रचण्डांछत्रलीलया। उद्धरन्ति महानेकभूधरां ये वसुन्धराम्॥२३॥तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पन्नसिद्धीनां मर्त्यमात्र: कियानयम्॥२४॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात्॥२५॥ अर्हन्तः परसाहय्यात्तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः॥२६।। ततो वेगानिलोत्पातपतापतघनाघनः। रौद्राकृतिदुरालोको भयापसरदप्सराः॥२७॥ विकटोर:स्थलाघातपुञ्जितग्रहमण्डलः। स पापस्तत्र गतवान्
॥१२॥