________________
योगशास्त्रम्
योगगर्मस्तुतिः
॥११॥
सिक्तः कृपासुधावृष्टयादृष्टया भगवतोरगः । पक्षान्ते पश्चतां प्राप्य सहस्रारदिवं ययौ ॥३९॥ विदधति विविधोपसर्गबाधां फणिभृति दृष्टिविषे हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरमजिनस्य जगत्त्रयैकबन्धोः ॥१४० ॥२॥...
प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाहकृतोपराधेऽपि जने कृपामन्थरतारयोः। ईषद्वाष्पार्द्रयोर्भद्रं श्रीवीरजिननेत्रयोः॥३॥
विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे ईषनते तारे कनीनिके ययोः ईषद्वाष्पश्चक्षुर्जलं स च करुणाकृत एव तेन आर्टे क्लिन्ने भगवतो नेत्रे तयोर्भद्रमिति सामर्थ्यान्नमस्कारप्रतीतिः ।
तथाहि
अनुग्राममनुपुरं विहरन् विभुरन्यदा ।दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम्॥१॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःका पोलासं चैत्यमाविशत् ॥२॥ जन्तूपरोधरहितमधिष्टाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः॥३॥स्थिरीकृतान्तःकरणो निर्निमेषविलोचनः। तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः॥४॥तदा शक्रः सुधर्मायां सभायां परिवारितः। सहखैश्चतुरशीत्या सामानिकदिवौकसाम्।।५||त्रयस्त्रिंशत्रायस्त्रिंशैः पर्षद्भिस्तिमृभिस्तथा। चतुर्भिर्लोकपालैश्च संख्यातीतैः प्रकीर्णकैः॥६॥प्रत्येकं चतुरशीत्या सहस्रैरङ्गरक्षकैः। दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥७॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः। देवदेवीगणैराभियोग्यः किल्बिषिकादिभिः॥८॥तूर्यत्रयादिभिः काल विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकार्द्ध शक्रः सिंहासने स्थितः॥९॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् ।
॥११॥