________________
योगशास्त्रम् ૨૦
योगगर्भस्तुतिः
तास्वपि । ददंश दन्दशूकोऽसौ निःशूकः पादपङ्कजे ॥२०! दष्ट्वा दष्ट्वापचक्राम स्वविषोद्रेकदुर्मदः। यत्पतन्मद्विषाक्रान्तो मृदुनीयादेष मामपि ॥२१॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभौ । गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥२२॥ ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । विक्षाश्चके जगन्नाथं वीक्षापन्नः स पन्नगः ॥२३।। ततो निरूप्य रूपं तदनुरूपं जगद्गुरोः । कान्तिसौम्यतया मक्षु विध्याते तद्विलोचने ॥२४॥ उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चण्डकौशिक बुध्यस्व बुध्यस्व ननु मा मुहः॥२५॥श्रुत्वा तद्भगवद्वाक्यमूहापोहं वितन्वतः। पन्नगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ।।२६।। सत्रिः प्रदक्षिणीकृत्य ततश्च परमेश्वरम् । निष्कषायः सुमनसाऽनशनं प्रत्यपद्यत ॥२७॥ कृतानशनकाणं निष्कर्माणं महोरगम् । प्रशमापनमज्ञासीदन्वज्ञासीच्च तं प्रभुः ॥२८॥ कुत्राप्यन्यत्र मा यासीदृष्टिमें विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स समतामृतम् ॥२९॥ तस्थौ तथैव तत्रैव स्वामी तदनुकम्पया । परेषामुपकाराय महतां हि प्रवृत्तयः ॥३०॥ भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वत्सपालाश्च तत्रोपसमपुट्टतम् ॥३१॥ वृक्षान्तरे तिरोभूय यथेष्ट ग्रावलोष्टुभिः। प्रतिजघ्नुरनिनास्ते परगस्य महात्मनः ॥३२॥ तथाप्यविचलन्तं तं वीक्ष्य विश्रम्भमाजिनः। यष्टिभिर्घट्टयामामुनिकटीभूय तत्तनुम् ॥३३॥ आख्यन् जनानां ते गोपास्ततस्तत्रागमन् जनाः। ववन्दिरे महावीरममहंश्च महोरगम् ॥३४॥ घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयङ्गवीनेनाम्रक्षयन् पस्पृशुश्च तम् ॥३५॥ आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः। चक्रिरे तितउपायमहेस्तस्य कलेवरम् ॥३६॥ मत्कर्मणां कियदेतदित्यात्मानं विरोधयन् । वेदनामधिसेहे तां दुःसहां सोऽहिपुङ्गवः ॥३७॥ वराक्यो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः॥३८॥
॥१०॥