________________
योगशास्त्रम
योगगर्भस्तुतिः
liા
श्वेतम्व्या एत्य तद्वनम्॥२॥अथ व्यावर्त्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तवा। जाज्वल्यमानः क्रोधेन हविषेव हुताशनः । अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत॥४॥राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे॥५॥ पततः पतितस्तस्य सम्मुखः परशुः शितः। शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम्॥६। स विपद्य वनेऽत्रैव चण्डोऽहिंदृग्विषोऽभवत्। क्रोधस्तीबानुबन्धो हि सह याति भवान्तरे ॥७॥ अवश्यं चैष बोधाई इति बुद्धया जगद्गुरुः। आत्मपीडामगणयन्नृ जुनैव पथा ययौ।।८॥ अभवत्पदसञ्चारमुखमीभूतवालुकम्। उदपानावहत्कुल्यं शुल्कजर्जरपादपम्॥९॥जीर्णपर्णचयास्तीर्ण कीर्ण वल्भीकपर्वतैः । स्थलीभृतोटजं जीणारण्यं न्यविशत प्रभुः॥१०॥ तत्र चाथ जगन्नाथो यक्षमण्डपिकान्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः॥११॥ ततो दृष्टिविषः सर्पः सदो भ्रमितुं बहिः । बिलान्निरसरज्जिह्वा कालरात्रिमुखादिव॥१२॥ भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाज्ञालेखामिव लिखनीक्षाश्चक्रे जगद्गुरुम् ॥१३॥ अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ । आः प्रविष्टो निराशङ्ख निष्कम्पः शङ्कवत् स्थितः॥१४॥ तदेनं भस्मसादद्य करोनीति विचिन्तयन् । आध्मायमानं कोपेन फटाटोपं चकार सः॥१५।। ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशापश्यत्स्फारफूत्कारदारुणः॥१६॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥१७॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं किं कम्पयितुमीश्वरः ॥१८॥ दारुदाई न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनकरं दृग्ज्वालाः सोऽमुचत्पुनः ॥१९|| सम्पन्नासु प्रभौ वारिधाराप्रायासु