________________
योगशास्त्रम्
योगगर्म स्तुतिः
licin
श्वेतम्बी नगरी गच्छन्नित्यूचे गोपदारकैः ॥८५॥ देवार्यायमृजुः पन्थाः श्वेतम्बीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ॥८६॥ स हि दृग्विषसणाधिष्ठितो वर्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥८७॥ विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥८८॥ तं चाहिं प्रभुरज्ञासीधदसौ पूर्वजन्मनि। क्षपकः पारणकार्थ विहर्तुं वसतेरगात् ॥८९॥ गच्छता तेन मण्डूकी पादपाताद्विराधिता। आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥९०॥ सोऽथ प्रत्युत मण्डूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र किमेता अपि मारिताः॥९१॥ तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः। महानुभावो यदसौ सायमलोचयिष्यति ॥९२॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृतास्य विराधना ॥९३॥ अस्मारयच्च तां भेकीमालोचयसि किं नहि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः॥९४॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केपूदपद्यत ॥९५॥ सच्युत्वा कनकखले सहस्राईतपस्विनाम् । पत्युः कुलपतेः पन्याः पुत्रोऽभूत्कौशिकाहयः॥९६॥ तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः। अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः॥९७॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते। असौ कुलपतिस्तत्र तापसानामजायत ॥९८॥ मूर्च्छया वनखण्डस्य सोऽन्तर्धाम्यन्नहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूल फलं दलम् ॥९९॥ विशीर्णमपि योऽग्रहणादने तत्र फलादिकम् । उत्पाटय परशुं यष्टिं लोष्टं वा तं जघान सः ॥१००॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः। पतिते लगुडे काका इव जग्मुर्दिशोदिशम् ॥११॥ अन्येधुः कण्टिकाहेतोः कौशिके बहिरीयुषि । अभाक्षुर्मक्षु राजन्याः
HT ॥८॥