________________
योगशास्त्रम् ॥७॥
DODDFOR
प्रभुः ||६७|| जगन्मनोगतान भावान प्रकाशयदथ प्रभोः । ज्ञानं तुरीयं संजज्ञे मन:पर्ययसंज्ञकम् ||६८|| ततश्च गत्वा सन्ध्यायां कुर्म्मारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्ग व्यधाद्विभुः ||६९ || गोपालनाथ यामिन्यां निष्कारणकृतक्रुधा । उपद्रोतुं समारेभे भगवानात्मवैरिणा ॥७०॥ अथेन्द्रेणावधिज्ञानाज्जज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चिखनिपन्निव ॥ ७१ ॥ कल्याणी भक्तिरागाच्च शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः कचित् ॥७२॥ ततः प्रदक्षिणीकृत्य त्रिर्मूर्ध्ना प्रणिपत्य च । इति विज्ञापयाञ्चक्रे प्रभुः प्राचीनवर्हिषा ॥ ७३ ॥ भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भगवान् पारिपार्श्विकः ||७४ || समाधिं पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षाञ्चक्रिरेऽईन्तः परसाहाय्यकं कचित् ॥७५॥ ततो जगद्गुरुः शीतलेश्यः शीतमयुखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ७६ ॥ शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्व्वस्पर्शान् सहिष्णुश्च यथैव हि वसुन्धरा ||७७|| अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥७८॥ खश्रृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म्म इवाहिरिवैकान्तदत्तदृक् ||७९ || निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खा इव जीव इवास्वलद्गतिः ॥ ८० ॥ व्योमेवानाश्रयो भारण्डपक्षीवाप्रमद्वरः । अम्भोजिनीदलमिवोपलेपपरिवर्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः॥ ८२ ॥ निष्कारणैककारुण्यपरायणमनस्तया । मञ्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥ ८३ ॥ प्रभुप्रभञ्जन इवाप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ||८४|| देशं दक्षिणवाचालमवाप्य प्रभुरन्यदा ।
OOKOEESE
योगगर्भ स्तुतिः
जा