________________
योगशास्त्रम् Hદ્દા
योगगर्भस्तुतिः
दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः ॥५०॥ वक्त्रे पातालकल्पेऽस्य जिहया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरःशैले केशैर्दावानलायितम् ॥५१॥ तस्यातिदारुणे दंष्टे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकटयाविव लोचने ॥५२॥ घोणारन्त्रे महाघोर महीधरगुहे इव । भृकुटीभङ्गरे भीमे महोरग्याविव भ्रवौ॥५३॥ व्यरंसीद्वर्धनानासौ यावत्तावन्महौजसा। आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः॥५४॥ एवं च भगवर्य साक्षात्कृत्येन्द्रवर्णितम् । प्रभु नत्वात्मरूपेण निजं धाम जगाम सः॥५५॥ मातापितृभ्यामन्येयुः प्रारब्धेऽध्यापनोत्सवे । आः सर्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थित।।५६।। उपाध्यायासने तस्मिन्वासवेनोपवेशितः। प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥५७॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छुत्वा लोकेप्वैन्द्रमितीरितम् ॥५८॥ मातपित्रोरनुरोधादष्टाविंशतिवत्सरीम् । कथाठिचदगृहवासेऽस्थात्प्रवज्योत्कण्ठितः प्रभुः॥५९॥ अथ पूर्णायुषोः पित्रोदेवभूयमुपेयुषोः ईहाश्चक्रे परिव्रज्यां निरीहो राज्यसम्पदः ॥६०॥ भगवन्मा क्षते क्षारं क्षैप्सीरिति सगद्गदम् । भ्रात्रीक्त्वा ज्यायसा नन्दिवर्द्धनेनोपरोधितः॥६१।। भावतो यतिरेवाथ नानाभरणभूषितः। कायोत्सर्ग श्रयश्चित्रशालिकायामवस्थितः॥६२॥ एषणीयप्रामुकामपानवृत्तिमहामनाः। वर्षमेकं कथमपि भगवानत्यवाहयत् ॥६॥ तीर्थ प्रवर्तयेत्यभ्यर्थितो लोकान्तिकामरैः । यथाक.मीनमर्थिभ्यो दानं दातुं प्रचक्रमे ॥६४॥ द्वतीयीकेन वर्षेण विनिर्मायानृणां भुवम् । औज्झद्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥६५॥ सव्वैर्देवनिकायैश्च कृतनिष्क्रमणोत्सवः । सहसवाद्यामारू, शिवीं चन्द्रप्रभाभिधा॥६६॥ ज्ञातखण्डवने गत्वा सर्वसावद्यवर्जनात् । प्रव्रज्यामग्रहीदहश्चतुर्थप्रहरे
แผน