________________
योगशास्त्रम्
योगगर्भस्तुतिः
॥५॥
तत्त्वदृश्वने ॥३२॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञानबलवीर्यतेजःशक्त्यैश्वर्यमयाय ते ॥३३॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः॥३४॥ तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः॥३५॥ इति स्तुत्वा नमस्कृत्य गृहीत्वा परमेश्वरम् । आनीय तत्क्षणं मातुरर्पयामास वासवः ॥३६॥ स्ववंशवृद्धिकरणाद्यथार्थ पितरौ तदा । नामधेयं विदधतुर्वर्द्धमान इति प्रभोः ॥३७॥ सोऽहंपूचिकया भक्तैः सेव्यमानः सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ॥३८॥ अष्टोत्तरसहस्त्रेण लक्षणैरुपलक्षितः। निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥३९॥ राजपुत्रैः सवयोभिः समं निःसीमविक्रमः । वयोऽनुरूपक्रीडाभिः कदाचित्क्रीडितुं ययौ ॥४०॥ तदा ज्ञात्वावधिज्ञानान्मध्येसुरसभं हरिः। धीरा अनुमहावीरमिति वीरमवर्णयत् ॥४१॥ क्षोभयिष्यामि तं धीरमेषोऽहमिति मत्सरी । आजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः ॥४२॥ कुळत्यामलकीक्रीडां राजपुत्रैः सह प्रभो । सोऽविवेष्टविटपिनं भुजगीभूय मायया । ॥४३॥ तत्कालं राजपुत्रेषु वित्रस्तेषु दिशोदिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥४४॥ सनीडाः क्रीडितुं तत्र कुमाराः पुनराययुः। कुमारीभूय सोऽप्यागात्सर्वेऽप्यारुरुहुस्तरुम् ॥४५॥ पादपाग्रं कुमारेभ्यःप्राप प्रथमतः प्रभुः। यद्वा कियदमुष्येदं यो लोकायं गमिष्यति ॥४६।। शुशुभे भगवांस्तत्र मेरुश्रृङ्ग इवार्यमा । लम्बमाना बभुः शाखास्वन्ये शाखामृगा इव ॥४७॥ जिग्ये भगवता तत्र कृतश्चासीदियं पणः। जयेद्य इह स ह्यन्यान् पृष्ठामारुह्य वाहयेत् ॥४८॥ आरुह्यावाहद्वाहानिव वीरः कुमारकान्। आरुरोह सुरस्यापि पृष्ठं प्रष्ठो महोजसाम् ॥४९॥ ततः करालं वेतालरूपमाधाय
(१) (वीरा) (२) वीरम्
॥५॥