________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥५७९॥
संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनःशुद्धिमन्तरेण तपसा मुक्तिर्दष्प्रापा ॥४२॥
ये तु ध्यानं तपःसहितं मुक्तिद इति वदन्तो मनःशुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारण इति प्रतिपनास्तान प्रत्याहतपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥४३॥
तपस्विनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किंविशिष्टस्य ? सर्वथा मनःशुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानवलेन नवमवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम् , न च तत् फलत्वेन विवक्षितम् , मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य मुधा, तथा ध्यानमपीति भावः ॥४३॥
उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता । तपःश्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥
तत् तस्मात् अवश्यं निश्चयेन मनःशुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः ? कायो दण्डयत एभिरिति कायदण्डनास्तैः, कैः? तपः श्रुतयमप्रायैः--तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते । अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः? लेश्याविशुद्धया
॥५७९।