________________
चतुर्थ
योगशाखम्
प्रकाशः
1५८०॥
मनसो निर्मलत्वम् । काः पुनर्लेश्याः ? कृष्णनीलकापोततेजःपद्मशुक्लवर्णद्रव्यसाचिव्यादात्मनस्तदनुरूपः परिणामः, यदाह_कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥१॥
तत्र कृष्णवर्णपुद्गलसन्निधाने य आत्मनोऽशुद्धतमः परिणामः सा कृष्णलेश्या-। नीलद्रव्यसमिधाने य आत्मनोऽशुद्धतरः परिणामः सा नीललेश्या । कापोतवर्णद्रव्यसान्निध्यात्तदनुरूपोऽशुद्ध आत्मपरिणामः कापोतलेश्या । तेजोवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्ध आत्मपरिणामस्तेजोलेश्या । पद्मवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पद्मलेश्या । शुक्लवर्णद्रव्यसान्निध्याच्छुद्धतम आत्मपरिणामः शुक्ललेश्या । कृष्णादिद्रव्याणि च सकलकर्मप्रकृतिनिःस्यन्दभूतानि, तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः । यदाह--
ताः कृष्णनीलकापोततैजसी (स) पद्मशुक्लनामानः श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधायः॥२॥ एताश्चाऽशुद्धतमाऽशुद्धतराऽशुद्धशुद्धशुद्धतरशुद्धतमात्मपरिणामरूपा जम्बूफलखादकदृष्टान्ताद् ग्रामघातकदृष्टान्ताच्चावसेयाः । आगमगाथाश्चात्र-- १जह जम्बुतरुवरेगो सुपक्कफलभरियनमियसालग्गो । दिह्रो छहि पुरिसेहिं ते बिती जंबु भक्खेमो ॥१॥ किह पुण ते बितेगो आरुहमाणाण जीअसंदेहो । ता छिदिऊण मूले पाडेउ ताहि भकखेमो ॥२॥ (१) यथा जम्बूतरुवर एकः सुपक्वफलभरितनमितसालानः । दृष्ट पद्भिः पुरुषैस्ते ब्रुवन्ति जम्बूनि भक्षयामः॥१॥ कथं पुनस्ते ब्रुवन्ति एक (आह) आरोहतां जीवसन्देहः। ततश्छित्त्वा मूलतः पातयित्वा तानि भक्षयामः॥२॥
॥५८oll