SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ पोगशास्त्रम् TT-T: 11५७८॥ इदानीमिन्द्रियजयहेतुं मनःशुद्धिं प्रस्तौतिदीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः॥४०॥ एकैव सा यमनियमादिरहितापि मनःशुद्धिः दीपिकेव दीपिका, किंविशिष्टा ? अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, मुमुक्षोः इति शेषः, समाम्नाता पारम्पर्येण कथिता. कैः! मनीषिभिः पूर्वाचार्यैः, यदाह-- ज्ञाने ध्याने दाने माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥१॥४०॥ मनःशुद्धरन्वयव्यतिरेकाभ्यां गुणान्तरदर्शनेनोपदेशमाह-- सत्यां हि मनसःशुद्धौ सत्यसन्तोऽपि यद्गुणाः। सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः।४१॥ ___ यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमाना अपि सन्ति भवन्ति तत्फलसद्भावाद् गुणाः क्षान्त्यादयः । सन्तो विद्यमाना अपि गुणा असत्यां मनसः शुदौ नो सन्ति न सन्त्येव, तत्फलाभावात् । ततः कारणादन्वयव्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिभिः ॥४१॥ ये तु “ आस्तामेषा मनः शुद्धिः, तपोबलेनैव मुक्तिं वयं साधयिष्यामः," इति प्रतिपद्यन्ते तान् प्रत्याहमनःशुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ।४२। मनःशुद्धिमविभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपाक्लेशमनुभवन्ति, ते दुग्रडग्रहिलाः ॥५७८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy