SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ RI चतुर्थ योगशास्त्रम् प्रकाश अ५७७॥ 2 . = धारयति स हस्यते विवेकिभिः। क इव कथम्भूतः। पङ्गुरिव पद्भ्यां पादाभ्यां ग्रामान्तरं निगमिषुः । पादप्रचाररुपो हि मनोरोधस्तदभावे कथं पङ्गुनामान्तरजिगमिषातुल्या योगश्रद्धेति ॥३७॥ न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरान प्रतिपादयितुं पूर्वार्द्धन काका मनोरोधमुपदिशतिमनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥३८॥ मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते आश्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यतिप्रबलानि समन्ततः सामस्त्येन । मनोरोधायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति-अनिरुद्धमनस्कस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनः प्रसराधीनत्वात् कर्मप्रसरस्य ॥३८॥ तदेतनिश्चित्य मनोनियन्त्रणाय यत्नः कार्य इत्येतदाहमनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥३९॥ ___ मनो भावमन एव कपिमकटः। अयमिति सर्वेषां स्वसंवेदनसिद्धः। कपित्वरुपेण साधर्म्यमाह-विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयमहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनःकपिनियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिस्थाप्यः। यत्नेन तत्त्वाभ्यासरुपेण । किं कुर्वद्भिः? मुक्ति मोक्षमिच्छन्तीत्येवंशीलास्तरात्मनः स्वस्य । मनश्चापलनिरोधस्य साध्या हि मुक्तिरिति ॥३९॥ ॥५७७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy