________________
चतुर्थ
योगशास्त्रम्
प्रकाशः
।।५७६.
इह द्विविधं मनः-द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्र्व्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थर्यमनवलम्बमानः कथं भ्राम्यन् ? अपशकं निभयं यथा भवति । तदपि कुतः? । निर्गतस्तत्वभावनादिनि(नि)वारकत्वात् अकुशो यस्माद् स तथा । प्रपातयति प्रकर्षेण पातयति संसार एवावर्तप्रधानोगतस्तत्र । जगत्त्रयो मिति । न स कश्चिद् जन्तुर्जगत्त्रयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्तगर्ने न पात्यते । जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ने पातनाद् जगत्त्रयीं पातयतीति उपचारादुक्तम् ॥३५॥
पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः। वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित् ॥३६॥
तप्यमानान् कुर्वाणान्, कि सत् ! तपः। तथा मुक्ती मोक्षे गन्तुकामान् गन्तुमध्यवसितान् शरीरिणो जन्तून् तरलमेकत्रानवस्थायि चेतो भावमनः क क्षिपत्यन्यत्र कुत्रचित मोक्षादन्यत्र नरकादौ । किवद् ! वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् बातसमूहो विवक्षिताद् देशात अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६ ॥
पुनरनियन्त्रितस्य मनसो दोपमाह-- अनिरुद्धमनस्कः सन् योगश्रद्धां दधोति यः। पद्भ्यां जिगमिषुर्गामं स पणुरिव हस्यते ॥३७॥
न विरुद्ध चापल्यात् च्यावितं मनो येन सोऽनिरुद्धमनस्कः सन् योगश्रद्धा अहं योगीत्यभिमान यो दधाति
॥५७६।।