________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥५७५॥
जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ९॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे । रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव ॥१०॥ कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा। य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ? ॥११॥ शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि । विषयास्तत् क रज्येत विरज्येत क चेन्द्रियैः ॥१२॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वं भावानां तन्न तत्वेन जातुचित् ॥ १३ ॥ एवं विमृश्य विषयेषु शुभाशुभत्व-मौपाधिकं तदविमुक्तिविरक्तचेताः। हन्तेन्द्रियार्थमधिकृत्य जहीहि राग, द्वेष तथेन्द्रियजयाय कृताभिलाषः॥१४॥
अथैवं दुजयेन्द्रियजय प्रति कोऽसाधारण उपाय इत्याह--मनःशुद्धया मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमवृद्धसेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतम मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्ध हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह--यां विना यमेत्यादि । यां मनःशुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा। सा च मनःशुद्धिः केषाश्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्यपायबलाद् नियन्त्रिते मनसि भवति ॥ ३४ ॥ __ अनियन्त्रितं मनो यत्करोति तदाहमनः क्षपाचरो भ्राम्यन्नपशङ्क निरङ्कुशः। प्रपातयति संसाराऽऽवर्तगर्ते जगत्त्रयीम् ॥३५॥
॥५७५॥