________________
योग
शास्त्रम्
॥ ५७४ ॥
जनकत्वमिति दर्शनार्थम् । एकैको विषयो गजादीनां पञ्चत्वाय मरणाय । यस्तु पुमान् सर्वेषु विषयेष्वासक्तस्तं प्रत्याह-- कथं हि युगपत् पञ्चापि विषयाः सेविताः पञ्चत्वाय न भवन्ति ? अपि तु भवन्त्येवेति । यदाहपञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ १ ॥३३॥ इन्द्रियदोषानभिधाय तज्जयोपदेशमाह-
तदिन्द्रियजयं कुर्याद् मनः शुद्ध्या महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ ३४ ॥ यस्मादेवंविधानर्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । द्विविधानि हीन्द्रियाणि द्रव्येन्द्रियाणि भावेन्द्रियाणि च । तत्र द्रव्येन्द्रियाणि स्पर्शनेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि भावेन्द्रियाणि स्पर्शादिष्वभिलाषोपायरूपाणि तेषां जयो लौल्यपरिहारेणावस्थानम् । अत्रान्तरश्लोकाः
अनिजितेन्द्रियग्रामो यतो दुखैः प्रबाध्यते । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥ १॥ न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्तया तु प्रवृत्तिरपि तज्जयः || २ || अशक्यो विषयोऽस्प्रष्टुमिन्द्रियैः स्वसमीपगः । रागद्वेषौ पुनस्तत्र मतिमान परिवर्जयेत् || ३|| हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यतिवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ||५|| स्पर्शे मृदौ च तुल्यादेरुपलादेश्च कर्कशे । भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ रसे स्वादौ च भक्ष्यादेरितरस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्योच्चैर्जिह् वेन्द्रियजयी भव ||७|| घ्राण देशमनुप्राप्ते शुभे गन्धेऽपरत्र वा । ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥ ८ ॥ मनोज्ञं रूपमालोक्य यदिवा तद्विलक्षणम् । त्यजन् हर्ष
चतुथ प्रकाशः
॥। ५७४॥