________________
योग
शास्त्रम्
।।५७१ ।।
इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वं वप्रः केः कैर्न खण्डयते ? ||२६|| इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषायाभिभूतश्च नरकं यातीति सुप्रसिद्धमेव । ननु यदीन्द्रियजयेऽशक्तो जन्तुः, तहन्द्रियजनितैव बाधास्तु, कोऽवसरः कषायवाधायाः ? इत्याशङ्कामपनेतुं दृष्टान्तमाह- वीरैविक्रान्तैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः पूर्व प्रथमम् पश्चात् कैः कैरवीरैरपि एकैकेष्टकाशकलकर्षणेन न खण्डयते न खण्डशो नीयते ? । अयमर्थ:यथा वीरपुरुषपातितच्छिद्रः प्राकारः कर्मकरप्रायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरप्रायैरिन्द्रियैर्भ ग्नप्राय इतर पुरुषप्रायैः कषायैर्वाध्यते इन्द्रियानुसारित्वात् कषायाणाम् ||२६||
न केवलमनिर्जितैरिन्द्रियैः कषायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि अनिर्जितानीन्द्रियाण्यपायकारणान्येवेत्याह
कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥२७॥
शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते । कस्मै ? कुलघाताय कुलघातो वंशोच्छेदः, पाताय पातो राज्यादिभ्रंशः, बन्धाय बन्धो नियमनम्, वधाय वधः प्राणनिग्रहः । तत्र कुलघातायेन्द्रियाणि रावणस्येव । तस्य निर्जितेन्द्रियस्य परदारान् रिरंसमानस्य रामलक्ष्मणाभ्यां कुलक्षयः कृत इत्युक्तपूर्वम् । पातयेन्द्रियाणि सोदासस्येव । स हि राज्यं पालयन् मांसप्रियतया नानाविधैर्मासैरात्मानं प्रीणयनेकदा
चतुर्थ
प्रकाशः
1149811