________________
।
योगशास्त्रम्
चतुर्थ प्रकाशः
॥५७२॥
सूपकारैः संस्कृते मांसे बिडालादिभिर्भक्षिते सति तस्मिन दिने धार्मिकैः श्रावकजनै राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावादन्यमांसाप्राप्तौ मुलभस्य कस्यचिडिम्भस्य मांसं परिवेष्य राजा परितोषितः । स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ । तैश्च यथास्थिते कथिते मानुषमांसगृद्धया सकलनगरे डिम्भमानुषग्रहणाय स्वपुरुषान् नियुक्तवान् । एतच ज्ञात्वा पौरजानपदैर्मन्त्रिभिश्च भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बध्ध्वाऽरण्ये विमुक्तः। स च राज्यात्, कुलात् परिवाराच पतितोऽरण्ये श्वापद इव दुःखमनुबभूव । बन्धायेन्द्रियाणि चण्डप्रद्योतस्येव । वधाय मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्तपूर्वम् । अत्रान्तरश्लोकाः
इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रश्चिष्टन्ते बालका इव ॥९॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि भरतोऽप्यसमक्षिपत् ॥२॥ जयो यद् बाहुबलिनि भरते च पराजयः । जिताजितानां तत् सर्वमिन्द्रियाणां विज़म्भितम् ॥३॥ यच्छवाशखि युध्यन्ते चरमेऽपि भवे स्थिताः। दुरन्तानामिन्द्रियाणां महिम्नानेन लज्जिताः॥४॥ दण्डयन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः। शान्तमोहाः पूर्वविदो दण्ड चन्ते यत् तदद्भतम् ॥५।। जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि ही ! तन्वन्ति तपस्विनः ॥६॥ अखाद्यान्यपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हृषीकवशगा नराः ॥७॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥८॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजम्भितम् ॥९॥ पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेभ्यः करणेभ्यो नमो नमः ॥१०॥विनयं ग्राह
॥५७२॥