SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगशास्त्रम् प्रकाशा ॥५७०।। पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ॥ २३ ॥ यद्यपि तुल्ययोगितया कषायेन्द्रियजयौ मोक्षरूपत्वेनोक्तौ, तथाप्यनयोः कषायजयः प्रधानम्, तद्धेतुस्तु इन्द्रियजयः, तदेवाहविनेन्द्रियजयं नैव कषायाओतुमीश्वरः। हन्यते हैमनं जाडयं न बिना ज्वलितानलम् ॥२४॥ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीपप्रकाशयोरिवास्ति कार्यकारणभावः, अत उक्तम्-इन्द्रियजयं विना न कषायजयः । हन्यते इत्यादिना दृष्टान्तः। हैमनजाडयसदृशाः कषायाः, ज्वलितानलप्रायश्चेन्द्रियजयः। हेमन्ते भवं हैमनम् “ हेमन्ताद् वा तलुक्च " ॥६।३।९१।। इत्यनेनाणि तलोपे वृद्धौ च सिद्धम् ॥२४॥ ___इन्द्रियजयः कषायजयहेतुत्वेनोक्तः. अजितानां त्विन्द्रियाणां न कषायजयहेतुत्वं प्रत्युतापायहेतुत्वमेवेत्याहअदान्तैरिन्द्रियहयैश्चलेरपथगामिभिः। आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ २५ ॥ ___ इन्द्रियाण्येव हया अश्वा इन्द्रियहयास्तैश्चलैरेकत्रानवस्थायिभिः प्रकृत्या, अदान्तैरजितैः सद्भिरपथगामिभिरुन्मार्गचारिभिराकृष्य बलात्कारेण कृष्ट्वा जन्तुः प्राणी, नरक एवारण्यं विविधभीतिहेतुत्वाद् नरकारण्यं तस्मिन् सपदि तत्क्षणाद् नीयते । यथाऽदान्तो हयोऽपथगामित्वेन स्वमारोहकमरण्ये नयति तथैवाजितैरिन्द्रियैर्जन्तुर्विविधापायबहुले नरके नीयत इत्यर्थः ॥ २५ ॥ कथमजितानीन्द्रियाणि नरकं नयन्तीत्याह-- ॥५७०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy