________________
योग
शास्त्रम् ॥५६९॥
तृष्णया । निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः ॥ ३ ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं विजृम्भते || ४ || संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्व चराचरम् ||५|| किमिन्द्रियाणां दमनैः किं कायपरिपीडनै: ? । ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥६॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । कि वा विमुक्तेः शिरसि श्रृङ्गं किमपि वर्त्तते ? ॥ ७ ॥ किं artist fear विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवसौख्यतः १ ॥८ ॥ परप्रत्यायनासारैः किंवा शास्त्रसुभाषितैः । मीलिताक्षा विमृशन्तु संतोपास्वादजं सुखम् ॥९॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ १० ॥ ननु तीव्रं तपःकर्म कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ | कृषिसेवापाशुपाल्यवाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निर्वृतिमाप्यते ! ||१२|| यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । क तत् संतोषवन्ध्यानां तूलिकाशायिनामपि || १३|| असंतुष्टास्तृणायन्ते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥ १४॥ आयासमात्रं नश्वर्यश्वक्रिशक्रादिसंपदः । अनायास च नित्यं च सुखं संतोषसंभवम् ॥ १५ ॥ इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुख साम्राज्यसुभगः ।
कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ १६ ॥ २२ ॥ एवं च -- इत्यनेन वक्ष्यमाणसंग्रह श्लोकस्यावसरमाह-
क्षान्त्या क्रोधो मृदुत्वेन मानो मायार्जवेन च । लोभवानीहया जेयाः कषोया इति संग्रहः ॥२३॥
चतुर्थ
प्रकाशः
॥५६९॥