________________
::
पोगशास्त्रम्
चतुर्थ
प्रकाश
॥५६८॥
हि ॥ ७ ॥ एकामिषाभिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनले शजिघृक्षया ॥८॥ लोभाद ग्रामाद्रिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ।।९॥ हासशोकद्वेषहर्षानसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ॥१०॥ आरभ्यते पूरयितुं लोभगर्तो यथा यथा। तथा तथा महच्चिनं मुहुरेष विवर्धते ॥११॥ अपि नामैष पूर्यत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽषि प्राप्ते लोभः प्रपूर्यते ॥ १२ ॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नाशोऽपि परिपूर्यते ॥१३॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥१४॥ मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥ १५ ॥ १९॥ २० ॥२१॥
लोभस्वरूपं निरूप्य तजयोपायमुपदिशतिलोभसागरमुढेलमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ २२ ॥
लोभ एवाप्राप्तपारत्वेन सागरस्तम्, उद्वेलमुद्तवेलं तत्तदुत्कलिकावत्वेन विवृद्धोच्छायम्, अतिवेलं भृशम्, एतच्च 'निवारयेत्' इति क्रियाया विशेषणम् । 'प्रसरन्तम्' इति लोभसागरस्य विशेषणम् । महामतिर्मुनिः । निवारणकारणमुपदिशति-संतोषसेतुबन्धेन संतोषो लोभप्रतिपक्षभूतो मनोधर्मः स एव सेतुबन्धो जलस्खलनाथं पालीबन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुन्ध्यादिति भावः । अत्रान्तरश्लोकाः--
यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः॥१॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः मुखदुःखयोः ॥ २॥ स्वाधीन राज्यमुत्सृज्य संतोपाम
1५६॥