________________
चतुर्थ
योग शास्त्रम्
प्रकाशा
व्यसनानि दुःखानि तान्येव बल्लयस्तासाम्, लोभश्चतुर्थकषायः, तस्य स्वरूपसंग्रहमाह-सर्वार्थबाधकः सर्वेषामर्थ्यन्त इत्यर्था धर्मार्थकाममोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वम्, गुणघातकत्वम्, व्यसनहेतुत्वं, सर्वपुरुषार्थघातकत्वं च प्रसिद्धमेव ॥ १८ ॥
लोभस्य दुर्जयत्वं श्लोकत्रयेणाद्दधनहीनः शतमेकं सहस्र शतवानपि । सहस्राधिपतिर्लक्षं कोटि लक्षेश्वरोऽपि च ॥ १९ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्व देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव इव वर्धते ॥२१॥
स्पष्टम् अत्रान्तरश्लोकाः-- हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ १॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादः प्रच्छादयन्ति यत् ॥२॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्छया ॥३॥ भुजङ्गगृहगोधाखुमुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाचमुद्गलप्रेतभूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः॥ ५॥ भूषणोद्यानवाप्यादौ मूछितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ६ ॥ प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि
१५६७॥