________________
योगशास्त्रम्
॥५६४॥
659e. Côn
परवचनार्थे प्रयुक्ताया मायायाः परमार्थतः स्ववञ्चनमेव फलमित्याह -
कौटिल्यपटवः पापा मायया वकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ २१६ ॥ मायया तृतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः स्वमेवात्मानमेव वञ्चयन्ते । के ? पापाः पापकर्मकारिणः । पापकर्मनिह्नवार्थमेव बकवृत्तयः, यथा वको मत्स्यादिवञ्चनाथं मन्दं मन्दं विचेष्टते तथा तेऽपि जगद्वञ्चनार्थ तथा चेष्टन्ते यथा बकसडशा भवन्ति । ननु मायया जगद्वञ्चनम्, तस्याश्च निह्नवः, इति कुत इयन्तं भारं ते वोडुं समर्थाः ? इत्याह- कौटिल्यपटवः कौटिल्यपाटवरहिता हि न कदाचित् परं वञ्चयते, न वा कदाचिद नित इति, कौटिल्यपाटवे तु द्वयं भवति परवञ्चनं वञ्चनाच्छादनं चेति । अत्रान्तरश्लोकाः
कूटषाड्गुण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच्च राजानो वञ्चयन्तेऽखिलं जनम् ॥ १ ॥ तिलकैः मुद्रया मन्त्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वञ्चयन्ते द्विजा जनम् ||२|| कूटाः कूटतुलामानाशुक्रियाकारियोगतः । वञ्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः || ३ || जटामण्ड्यशिखाभस्मवल्कनाग्न्यादिधारणैः, धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिकाः ||४|| अरक्ताभिर्भाविहावलीलागतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वच्यते जगत् ||५|| प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ||६|| दम्पती पितरः पुत्राः सोदर्याः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवञ्चकाः ॥७॥ अर्थलुब्धा गतघृणा बन्दकारा मलिम्लुचाः । अहर्निशं जागरूकाभ्छलयन्ति प्रमादिनम् ||८|| कारवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलोकशपथैः कुर्वते साधुवञ्चनम् ||९|| व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः
चतुर्थ प्रकाशः
॥५६४॥