________________
योगशाखम्
चतुर्थ प्रकाशा
॥५६३॥
गुणमूलानि तिरोदधाति, दोषशाखाश्च विस्तारयति । तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रवाहेण समूलमुन्मूलनीय इत्यर्थः । अत्रान्तरश्लोकाः___ मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥अन्तः स्पृशेद् यत्र यत्रौद्धत्य जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्दिवमाश्रयेत् ॥२॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥ मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मादवात् तत्क्षण मुक्तः सद्यः संजातकेवलः॥ ४ ॥ चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मानच्छेदायामृदु मार्दवम् । ॥५॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानश्चिरं च वरिवस्यति ॥६॥ एवं च मानविषय परिमृश्य दोषं, ज्ञात्वा च मार्दवनिषेवणजे गुणौघम् । मानं विहाय यतिधर्मविशेषरूपं सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७ ॥ १४ ॥ ___इदानीं मायाकषायस्वरूपमाह-- असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ।१५।।।
असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात, 'माया' इति वक्ष्यमाणं संबध्यते, माया वञ्चनात्मकः परिणामः, तथा परशुः कुठारः शीलं सुस्वभावता तदेव शाखी तस्य परशुरिव परशुः छेदकत्वात्, तथा जन्मभूमिरुत्पत्तिस्थानम्, कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतेः कारणमिति प्रधानफलनिर्देशः ॥ १५ ॥
॥५६॥