________________
योग
चतुर्थ
शानम्
प्रकाशा
॥५६॥
विचारयन् । को वा सकर्णः स्वप्नेऽपि कुर्याद रूपमदं किल ॥१२॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥१३॥ येनैव तपसा त्रुटचेत् तरसा कर्मसंचयः । तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥१४॥ स्वबुद्धया रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ॥१५॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणे। कः श्रयेत श्रुतमदं सकर्णहृदयो जनः॥१६॥
केचित्तु ऐश्वर्यतपसोः स्थाने वाल्लभ्यबुद्धिमदौ पठन्ति, उपदिशन्ति, च,द्रमकैरिव च दुष्कर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद वाल्लभ्यकमवाप्यते को मदस्तेन ॥१॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥२॥ तथाग्रहणोद्याहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥३॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्धया मदं यान्ति ? ॥४॥१३॥ मानस्य स्वरूप भेदांश्च प्रतिपाद्य, इदानीं स मानप्रतिपक्षभूतं मार्दवं मानजयोपायमुपदिशति,उत्सर्पयन् दोषशाखा गुणमलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरिप्लवैः ॥१४॥ ___ मान एव द्र म उन्नतिविशेषधारित्वेन । मानदुमयोः साधर्म्यमाह-उत्सर्पयन्नू नयन् दोषा एव प्रसरणशीलत्वेन शाखा दोषशाखास्ताः, गुणा एव मूलानि गुणमूलानि तान्यधो नयन् न्यक्कुर्वन् । कैरुन्मूलनीयः? मादवसरित्प्लवैर्दिवमेव सततवाहितया सरित् तस्याः प्लवैः प्रसरैः। मद्रुमो हि यथा यथा वर्धते तथा तथा
11५६२॥