________________
बोगशास्त्रम्
प्रकाशा
॥५६॥
वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तस्मिश्च सत्यन्धकरणत्वं मानस्य सुवचमेव ॥१२।।
इदानीं मानस्य भेदानुपदर्शयंस्तत्फलमाहजातिलाभकुलैश्वर्यबलरुपतपःश्रुतैः। कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥१३॥
जातिश्च लाभश्चेत्यादिद्वन्द्वः, तैर्मदं मदलिप्तचित्ततां कुर्वन् , तान्येव जात्यादीनि जन्मान्तरे हीनानि लभते । अत्रान्तर श्लोकाः___ जातिभेदान् नैकविधानुत्तमाधममध्यमान । दृष्ट्वा को नाम कुर्वोत जातु जातिमदं सुधीः॥१॥ उत्तमां जातिमामोति हीनामाप्नोति कर्मतः। तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥२॥ अन्तरायक्षयादेव लाभो भवति नान्यथा। ततश्च वस्तुतत्त्वज्ञो न लाभमदमुहेत ॥३॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥४॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः। न कर्तव्यः कुलमदो महाकुलभवैरपि ॥५॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद् न विचक्षणः ॥६॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वजधारिणः । पुरग्रामधनादीनामैश्वर्य कीदृशो मदः ॥७॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्य न मदाय विवेकिनाम् ॥८॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो न हि ॥९॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे। अबलाश्चेत्, ततो हन्त ! तेषां बलमदो मुधा ॥१०॥ सप्तधातुमये देहे चयापचयधमिणि । जरारुजाभिभाव्यस्य को रूपस्य मदं बहेत् ॥११॥ सनत्कुमारस्य रूपं तत्क्षयं च