________________
योगशास्त्रम्
॥५६०।।
॥ ९ ॥ महर्षिः क्रोधसंयुक्तो निष्क्रोधः कूरगड्डुकः । ऋषि मुक्त्वा देवताभिर्ववन्दे कूरगड्डुकः ॥ १०॥ अरुन्तुदैवचः शस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥११॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः । वये मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः || १२ || निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ||१३|| सर्वपुरुषार्थचौरे कोपे कोपो न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् || १४ || सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलिकीमिवान-वद्यां क्षमां संततमाद्रियेत ॥ १५ ॥ ११ ॥
मानकषायस्य स्वरूपमाह -
विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोव लुम्पन्नं मानोऽन्धङ्करणो नृणाम् | १२ |
विनयश्च गुर्वादिपूपचारलक्षणः श्रुतं च विद्या, शीलं च सुस्वभावता, तेषां घातकः । जात्यादिमदाध्मातो हि पिशाचकिप्रायो न गुर्वादीनां विनीतो भवति । अविनीतश्च गुरुनशुश्रूषमाणो न विद्यां प्रतिलभते । अत एव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति । न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मार्थकामलक्षणस्य | मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् ? । अर्थोऽपि राजादि सेवापरायत्तवृत्तिर्मानस्तब्धस्य कथं स्यात् ? । कामस्तु मार्दवमूल एव तत् कथं मानस्तब्धे स्थाणाविव भवेत् ? । किश्च अनन्धोऽन्धः क्रियतेऽनेनेत्यन्धङ्करणो मानः । केषां ? नृणाम् । कि कुर्वन् ? लुम्पन् । किं तत् ? विवेकलोचनं विवेकः कृत्याकृत्यविचारणं स एव लोचनम्, “ एकं हि चक्षुरमलं सहजो विवेकः " इति वचनात् । मानवतो हि
चतुर्थ
प्रकाशः
॥५६०॥