________________
पोगशास्त्रम्
चतुर्थ
प्रकाहा:
॥५५९॥
१अणथोवं वणथोवं अग्गियोवं कसायथोवं च । न हु मे वीससियव्वं थोवं पि हु तं बहु होई ॥१॥
श्रयणीया आश्रयितव्या एकैव क्षमा । नहि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंप्रदानं तु वैरहेतुत्वेन प्रत्युत क्रोधवृद्धिहेतुः, न तु तत्प्रशमाय इत्येकग्रहणम् । क्षमा विशिनष्टि-संयमारामसारणिः संयम एव नवनवानां संयमस्थानानां तरुणामारोपहेतुत्वेन तबृद्धिहेतुत्वेन चारामो विचित्रअरुसमूहात्मकस्तस्य सारणिः कुल्या संयमारामवृद्धिहेतुतया पुष्पफलप्राप्ति हेतुतया च । क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणतिः सा सारणित्वेन रूपिता नवनवप्रशमपरम्पराप्रवाहरूपत्वात् । अत्रान्तरश्लोकाः--
अपकारिजने कोपो निरोधुं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद यद्वा भावनयाऽनया ॥१॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति । स्वकर्मनिहि (ह) तायास्मै कः कुप्येद् बालिशोऽपि सन् ॥ २ ॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥३॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमप्रेक्ष्य शरक्षेप्तारमृच्छति ॥ ४ ॥ यः परः प्रेरितः रमह्यं कुप्यति कर्मभिः तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भवगश्रियम् ॥५॥ श्रूयते श्रीमहावीरः क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां शान्ति वो९ किमिव नेच्छसि ॥ ६ ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ? ॥ ७॥ तथा कि नाकृथाः पुण्यं यथा कोऽपि न बाधते ? । स्वप्रमादमिदानीं तु शोचनगीकुरु क्षमाम् ॥ ८ ॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् । (१) ऋणस्तोक वनस्तोकमग्निस्तोक कषायस्तोकं च । न खलु भवता विश्वसितव्यं स्तोकमपि तद् बहु भवति ॥१२॥
॥५५९॥