________________
योगशास्त्रम्
प्रकाशा
॥५५८॥
तथाविधकारणसंपाते उत्पद्यमानः क्रोधः कृशानुवत् स्वं स्वकीयमाश्रयं, यत्र स उत्पद्यते तं, नियमेन दहति, पश्चात् कृशानुवदेवान्यं दाह्यान्तरं दहति वा न वा. परस्य क्षमाशीलत्वादिना साई (सान्द्र) द्रुमादिवत् दग्धुमशक्यत्वान् । अत्रान्तरश्लोकाः__ अर्जितं पूर्वकोटया यद् वर्षैरष्टभिरुनया। तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥१॥ शमरुपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥२॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो श्यामलीकुरुतेतराम् ॥३॥ यो वैराग्यशमीपत्रपुटैः समरसोऽर्जितः। शाकपत्रपुटामेन क्रोधेनात्सृज्यते स किम् ? ॥४॥ प्रवर्धमानः क्रोधोऽयं किमकार्य करोति न?। जज्ञे हि द्वारका द्वैपायनक्रोधानले समित् ।।५।। ध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोजस्विकर्मणः खलु तत्फलम् ॥६॥ स्वस्य लोकद्वयोच्छित्त्यै नाशाय स्वपरार्थयोः। धिगहो! दधति क्रोधं शरीरेषु शरीरिणः ॥७॥ क्रोधान्धाः पश्य निघ्नन्ति पितरं मातरं गुरुम । महदं सोदरं दारानात्मानमपि निघृणाः ॥८॥१०॥
क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशतिक्रोधवनेस्तदहूनाय शमनाय शुभात्मभिः। श्रयणीयो क्षमैकव संयमारामसारणिः ॥११॥
यस्मात् क्रोध एवंविधस्तस्मात् क्रोधवरहाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः, असायग्रहणं झटिति क्रोधोपशमोपदेशार्थम, क्रोधो हि प्रथममेवाप्रतिहतः सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, यदाह--
॥५५८॥