________________
योगशास्त्रम्
प्रकाशा
क्रोधाः संज्वलनादिभेदाः, तिनिशलता-काष्ठा-ऽस्थि-शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन-गोमूत्रिकामेषश्रृङ्ग-वंशिमूलसमाश्वतखो मायाः, हरिद्रा- खञ्जन-कर्दम-कृमिरागसदृशाश्चत्वारो लोभाः, यदाह१जलरेणुपुढविपव्ययराईसरिसो चउन्विहो कोहो । तिनिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१॥ मायावलेहगोमुत्तिमिदसिंगघणवंसिमूलसमा। लोहो हलिदखंजणकदमकिमिरागसारिच्छो ॥२॥ इति ॥८॥ अथ कपायाणां जेतव्यत्वमुपदर्शयितुं दोषानाहतत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥९॥
तत्रेति तेषु कपायेषु क्रोधः प्रथमकषाय उपतापयति शरीरमनसी इत्युपतापकः, तथा वैरस्य परस्परोपघातात्मनो विरोधस्य सुभूम-परशुरामयोरिव कारणम्, तथा दुर्गतेनैरकलक्षणायास्तयोरिव वर्तनी मार्गः क्रोधः, तथा शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवागला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदौष्टयज्ञापनार्थम् ।।९।।
स्व-परोपतापकारित्वेऽपि क्रोधस्य कृशानुदृष्टान्तेन स्वोपतापकत्वं समर्थयते,उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥१०॥ (१) जलरेणुपृथ्वीपर्वतराजिसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिकशेलस्तम्भोपमो मानः ॥११॥
मायाऽवलेखगोमूत्रिकामेंढकशृङ्गधनवंशिमूलसमा । लोभो हरिद्राखञ्जनकर्दमकृमिरागसदृशः ॥२॥
५७७॥