________________
योगशास्त्रम्
॥५५६।।
नावरणः प्रत्याख्यानं सर्वविरतिमावृणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्याख्यानावरणः, नमोऽल्पार्थत्वादल्पमपि प्रत्याख्यानमावृणोतीति कृत्वा । स वर्ष संवत्सरमभिव्याप्य भवति । अनन्तं भवमनुबध्नातीत्यनन्तानुबन्धकः मिथ्यात्वसहचरितत्वादस्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति । प्रसन्न चन्द्रादेः क्षणमात्रस्थितीनामपि कषायाणामनन्तानुबन्धित्वम्, अन्यथा नरकयोग्यकमोपार्जनाभावात् ॥ ७ ॥
इति कालनियमकृते संज्वलनादिलक्षणेऽपरितुष्यंल्लक्षणान्तरमाह-
वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातकाः । ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः ॥ ८॥ त्वशब्दः प्रत्येकमभिसंबध्यते, तेन वीतरागत्वस्य यतित्वस्य, श्रावकत्वस्य सम्यग्दृष्टित्वस्य च क्रमेण घातकाः, तथाहि -संज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम्, प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनर्यतित्वम्, अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुनः श्रावकत्वम्; अनन्तानुबन्ध्युदये सम्यगृष्टित्वं न भवति । एवं बीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरणस्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातकत्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति । उत्तरार्धेनामीषां फलदायकस्वमाह - ते संज्वलनादयो देवत्वादिफलदायकाः, तथाहि संज्वलनाः क्रोधादयो देवगतिम् प्रत्याख्यानावरणा मनुष्यगतिम् अप्रत्यानावरणास्तिर्यग्गतिम् अनन्तानुबन्धिनो नरकगति प्रयच्छन्तीति । एतेषां च संज्वलनादिभेदानां चतुर्णां कषायाणां स्पष्टदृष्टान्तकथनेन स्वरूपमुच्यते - जलराजि - रेणुराजि - पृथिवीराजि - पर्वतरा जिसदृशाः
चतुर्थ प्रकाशः
।।५५६।।