________________
योग
शास्त्रम्
॥५५५॥
'अयमात्मैव' इति पूर्ववत् । संसारो नारक - तिर्यग् नरा-डमररूपतया । किंविशिष्टः सन् ! कषायेन्द्रियनिर्जितः कषायैरिन्द्रियैश्च पराभूतः । तमेव चात्मानं तद्विजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः । न हि स्वरूपलाभादन्यो मोक्षः । याऽप्यानन्दरूपता सापि स्वरूपलाभरूपैव । तस्मादात्मज्ञानमुपासनीयम्, दर्शन - चारित्रादेरत एव सिद्धेरिति ॥ ५ ॥
'कषायेन्द्रियनिर्जितः' इत्युक्तम्, तत्र कषायान् विवृणोति --
स्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः॥६॥ क्रोधमानमायालोभाः कषायशब्दवाच्या भवन्ति कथ्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसारः कर्म वा तस्याया लाभाः प्राप्तय इति कृत्वा, अथवा, कर्षं संसारमयन्त एभिरिति कृत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्भेदैः । तत्र क्रोधः संज्वलनः, प्रत्याख्यानावरणः, अप्रत्याख्यानावरणः, अनन्तानुबन्धी च । एवं मानः, माया लोभश्चेति ॥ ६ ॥ संज्वलनादीनां लक्षणमाह-
पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्षे जन्मानन्तानुबन्धकः ॥७॥
पक्ष मासार्धमभिव्याप्य संज्वलनः क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीपज्ज्वलनात्मकः, परीपहादिसंपाते सपदि ज्वलनात्मको वा । प्रत्याख्यानो “ भीमो भीमसेन" इति न्यायेन प्रत्याख्या
चतुर्थ
प्रकाशः
1194411