________________
योगशास्त्रम्
॥५५४॥
१ अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १ ॥ तत् स्थितमेतत् – बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि-"आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य आत्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात्, कर्मक्षये च सिद्धस्वरूपत्वात् ॥
एतदेवाह -
अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ४ ॥
अयमिति सकलप्रमाणप्रतिष्ठितश्चिपञ्चतनस्वभावः, उपयोगलक्षणत्वाज्जीवस्य, तथा स एव शरीरी भवति, कर्मयोगात्, न त्वन्ये विषयाः, तेन न विषयान्तरज्ञानं मृग्यते । आत्मैव च शुक्लध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्तस्वरूपो भवति निरञ्जनो निर्मलः । अतोऽपि कारणादात्मज्ञानं मृग्यते ॥ ४ ॥ तथा-अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५ ॥ (१) यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रवासमात्रेण ॥१॥
चतुर्थ
प्रकाशः
॥५५४॥