________________
योगशाखम्
चतुर्थ प्रकाशा
॥५५३॥
तदभेदमापन एवैष आत्मा शरीरमधितिष्ठति । आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात् , देवदत्तसंबन्धिनामिव यज्ञदत्ते ॥१॥
अभेदमेव समर्थयितुमाहआत्मानमात्मनो वेत्ति मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥२॥
आत्मानं कर्मतापन्नमात्मन्याधारभूते आत्मनां स्वयमेव यो वेत्ति जानीते । एतच्च ज्ञानं न मुढानां भवतीत्याह-मोहत्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम् , अनाश्रवरूपत्वात् , तज्ज्ञानं, तदेव ज्ञानम् बोधरूपत्वात ; तच्च दर्शनम् तदेव दर्शनं श्रद्धानरूपत्वात् ॥ २ ॥
आत्मज्ञानमेव स्तौतिआत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञानहीन छेत्तुं न शक्यते ॥ ३ ॥
इह सर्व दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । ननु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहुः,-"१पुचि दुच्चिन्नाणं दुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्याह,-तपसापि आस्तामन्येनानुष्ठानेन तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनैर्न कछेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् यदाह;
(१) पूर्व दुश्चरितानां दुष्प्रतिक्रान्तानां कृतानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा ।