________________
चतर्थ
योगशास्त्रम्
प्रकाश.
नाप्नोति निर्वृति मोक्षम् । न ह्यज्ञाततत्वोऽश्रद्दधानो नवं कर्म निबन्धन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद् मुक्तिमाप्नोतीति सर्व समञ्जसम् ॥ १५६ ॥ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रुषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपट्टबन्धे
श्रीयोगशास्त्रे स्वोपर्ड्स तृतीयप्रकाशविवरणम् ॥ ३ ॥
॥५५॥
॥ अहम् ॥
अर्थ चतुर्थः प्रकाशः । धर्मधर्मिणोर्भेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाहआत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति ॥ १ ॥
अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव न ततो भिन्नानि दर्शनज्ञानचारित्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाह-यद् यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव
॥५५२॥