________________
योग
शास्त्रम्
1149811
For OR O
भियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमानमहोद्यानमज्जनवापीविचित्ररत्नवस्त्राभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमाल्यमधुकरोऽहमहमिका सेवासमायातत्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोङ्गणो मनोमात्र परिश्रमसंमिलितसकलवैपीयकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्ष प्रकर्षः सन् प्रमोदभाग् भवति । अथ हेतुमाह — — अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥ ततः कल्पेभ्यश्च्युत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेशजातिकुलबलैश्वर्यरूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा भुक्त्वाऽनुभूय भोगान् शब्द-रूप-रस- गन्ध-स्पर्शलक्षणानकृत पुण्यैरतिशयेन दुर्लभान, यत् किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरति प्रतिपद्य तत्रैव जन्मनि क्षपकश्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य निःशेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमाप्नोति । अथ न तत्रैव मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह -- ' अन्तर्भवाष्टकम् इति भवाष्टकाभ्यन्तर इत्यर्थः ।। १५५ ।। प्रकाशत्रयोक्तमर्थमुपसंहरति-
इति संक्षेपतः सम्यग्रत्नत्रयमुदीरितम् । सवाऽपि यदनासाद्य नासादयति निर्वृतिम् ॥१५६॥ इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन प्रत्याख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधेन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह-संक्षेपतः । रत्नत्रयं विनाऽन्यतोऽपि कारणाद् निर्वाणप्राप्तिं शङ्कमानं प्रत्याह – सर्वोऽपि, आस्तां कश्चिदेकः यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन
ENO MOTO GOO
तृतीय
प्रकाशः
॥५५१ ॥