________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५५०॥
चना कचित् ? ॥५८॥ भवेदालोचना नो चेद ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥५९|| आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाधदर्शयत् ॥६॥ आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः ॥६॥ आलोचनीयं तदिह किमानन्देन किं मया ? गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ॥६२॥ तथैव प्रतिपेदे तद् विदधे च तथैव सः। क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥६३।। वर्षाणि विंशतिमिति प्रतिपाल्य धर्म-मानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानवरे विदेहेवृत्पद्य यास्यति पदं परमं ततश्च ॥६॥१५३।।
॥ इति आनन्दश्राद्धकथानकम् ।। अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाहप्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वास्थोनमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक ततः ॥१५४॥
च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् ।
विरक्तो मुक्तिमानोति शुद्धात्मान्तर्भवाष्टकम् ॥१५५॥ व्याख्या–स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु, सौधर्मादिषु, सम्यग्दृष्टीनामन्यत्रोत्पादाभावात इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिकत्रायस्त्रिंशपारिषद्य-लोकपालादिसंबन्धि स्थानं पदं प्राप्तः, उत्तममित्या
॥५५॥