________________
योगशास्त्रम् ॥५४९ ॥
तस्येवमचिन्तयत् ||४० ॥ यावदुत्थातुमीशोऽस्मि शब्दायितुमपीश्वरः । धर्माचार्यश्च भगवान् यावद् विहरते मम ॥४१॥ संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुर्विधाहारप्रत्याख्यानं करोम्यहम् ||४२॥ चिन्तविमानन्दस्तथैव विदधेऽपि च । विसंवदति चिन्तायाचेष्टितं न महात्मनाम् ||४३|| निराकाङ्गक्षस्य कालेऽपि समत्वाध्यवसायिनः । तस्य जज्ञेऽवधिज्ञानं तदावरण शुद्वितः ॥ ४४ ॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा । दुतिपलाशे समवासरच्चक्रे च देशनाम् ||४५ || गौतमश्च तदा भिक्षाचर्यया प्राविशत् पुरे | आत्तान्नपानः कोलाके ययावानन्दभूषिते ||४६ || मिलितं तत्र भूयांसं लोकं संजातविस्मयम् ||४७|| शिष्यो जगद्गुरोर्वीरस्यानन्दो नाम पुण्यधीः । प्रपन्नानशनोऽस्वीह: निरीह सर्वथापि हि ||४८ || गौतमस्तु तदाकर्ण्य पश्याम्यमुपासकम् इति बुद्धया जगामाथ तत्पोपधनिकेतनम् ||४९ || अकस्माद् रत्नवृष्टयाभं तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दो - ऽवन्दतैवमुवाच च ॥ ५० ॥ भगवन् ! तपसाऽनेन क्लिष्टमुत्थातुमक्षमः । इह्यनभियोगेन यथा पादौ स्पृशामि ते ॥ ५१ ॥ उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दवरणौ शिरसा स्पृशन् ॥५२॥ किं भवत्यवधिज्ञानं भगवन् गृहमेधिनः १ । इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि
गृहमेधिनः । अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशतीं पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्नम् । अधो रत्नप्रभायास्तु पृथ्व्या आ लोलुपाद् वनात् ॥ ५६ ॥ मुनिरुवेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्यालोचयास्य तत् ||५७|| आनन्दोऽप्यब्रवीदेतदस्ति मे तत् सतामपि । भावानामभिधाने किं भवेदालो
2000
तृतीय
प्रकाशः
1198811