________________
तृतीय
योगशास्त्रम्
प्रकाशा
१५४८॥
दाल्यम्लात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद् मुखवासं च सोऽमुचत् ॥२३ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥ २४ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ॥२५॥ तत्र प्रणम्य चरणौ जगत्त्रयगुरोः पुरः । प्रपेदे शिवनन्दापि गृहिधर्म समाहिता ॥ २६ ॥ अभिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाक्सुधापानमुदिता सा गृहं ययौ ॥२७॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्मायं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः मुचिरं पालयिष्यति ॥ २९ ॥ ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुष्पल्योपमस्थितिः ॥३०॥ सततं जागरूकस्य द्वादशव्रतपालने । आनन्दस्य ततोऽतीयुर्हायनानि चतुर्दश ॥३१॥ निशान्ते चिन्तयामास सोऽन्येधुरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२ ॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं कचित् । अङ्गीकृतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥३३॥ ततो मनसिकृत्यैवं प्रातरुत्थाय कृत्यवित् । कोल्लाके पोषधशालां सुविशालामचीकरत् ॥ ३४ ॥ निमन्त्र्य मित्रसंबन्धिबान्धवादीनसावथ । भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽध्यरोप, यत् ॥३५॥ ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः । ययौ पौषधशालायां धर्मकर्मविधित्सया ॥४६ ॥ तस्थौ तत्र महात्मासौ कर्मेव कृशयन् वपुः। धर्म भगवदादिष्टमात्मानमिव पालयन् ॥ ३७ ॥ निःश्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे । श्रावकप्रतिमापक्तिमारुरोह क्रमेण सः ॥३८॥ तपसा तेन तीव्रण शुष्कासपिशिताङ्गकः। चर्मवेष्टितयष्टयाभो महासत्वो बभूव सः ॥ ३९ ॥ धर्मजागयया जाग्रनिशीथसमयेऽन्यदा । अभनस्तपसानन्दश्च
॥५४८॥