________________
योग
शास्त्रम् ॥५४७॥
भूत्वारश्च व्रजा गवाम् ||५|| तत्पुरादुत्तर प्राच्यां कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ॥ ७ ॥ जितशत्रुर्महीनाथ त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८ ॥ आनन्दोऽपि ययौ पद्भ्यां पादमूले जगत्पतेः । कर्णेपीयूषगण्डूषकल्पां शुश्राव देशनाम् ॥९॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः । जग्राह द्वादशविधं गृहिधर्म महामनाः ॥ १० ॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्वतखः स्वर्णकोटी र्निध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यौ व्रजानेष ऋते च चतुरो व्रजान । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना || १२ || शकटान् वर्जयामास पञ्च पञ्च शतान्यृते । दिग्यात्राच्यापृतानां च वहतां चानसामसौ ॥ १६ ॥ दिग्यात्रिकाणि चत्वारि स सांवहनिकानि च । विहाय वहनान्यन्यवनानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमार्द्राया मधुयष्टेते जहाँ || १५ || वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहखशतपाकिमे ||१६|| अन्यत् सुरभिगन्धाढ्यादुद्वर्तनक मत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्ड गुरु घुसृणान्यपास्यान्यद् विलेपनम् ||१८|| ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ||१९|| तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ।। २० ।। काष्ठपेयां विना पेयां कलमादन्यदोदनम् । मासमुद्रकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास बिना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकीं पालक्यां च विना जहाँ ॥ २२ ॥ ऋते स्नेहाम्ल
ECOND ORTOHOTO 0050
तृतीय
प्रकाशः
॥५४७॥