________________
तृतीय
योगशास्त्रम्
प्रकाशा
॥५४६॥
रोगस्तृणस्पर्शमलावपि ॥२५॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ। अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥२६॥ क्षुत् पिपासा शीतमुष्णं दंशाश्चर्या वधो मलः । शय्या रोगस्त गस्पर्शी जिने वेद्यस्य संभवात् ॥२७॥ तथा उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च;
दिव्यमानुपतैरश्चात्मसंवेदनभेदतः । चतुष्प्रकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥ हास्याद् द्वेषाद् विमर्शाच्च तन्मिश्रत्वाच्च देवताः। हास्याद् द्वेषाद् विमर्शाद दुःशीलसङ्गाच्च मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥३॥ यद्वा वात-पित्त-कफ-संनिपातोद्भवा अमी। परीषहोपसर्गाणामेषां सोढा भवेदमीः ॥४॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक, 'जिनैरपि हि संसारपारावारपारीणैः पर्यन्ताराधनानुष्ठिता इति बहुमानात् । तथा च,
१निव्वाणमंतकिरिआ सा चोइसमेंण पढमनाहस्स। सेसाण मासिएणं वीरजिणंदस्स छठेण ॥१॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम्:--
अस्त्यपास्तापरपुरं परमाभिर्विभूतिभिः नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥१॥ तत्र प्रजानां विधिवत् पितेव परिपालकः जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥२॥ आसीद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी। बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥४॥ निधौ वृद्धो व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽ
(१) निर्वाणमन्तक्रिया सा चतुर्दशेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥१॥
॥५४६॥