________________
तृतीय
योगशास्त्रम्
प्रकाशा
नैव ताः॥ ८॥ ग्रामाद्यनियतस्थायी स्थानावन्धविवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ ९॥ श्मशानादौ निषद्यायां स्न्यादिकण्टकवजिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषौ न कुर्वीत प्रातस्त्याज्यति चिन्तयेत् ॥ ११॥ आक्रुष्टोऽपि हि नाक्रोशेत क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिन तु । जीवानाशात् क्रुधो दौष्टचात् क्षमया च गुणार्जनात् ॥ १३॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याचा दुःखं प्रतीच्छेत् तद् नेच्छेत् पुनरगारिताम् ।। १४ ।। परात् परार्थ स्वार्थ वा लभेतानादि नापि वा । मायेद न लाभाद नागभाद् निन्देत् स्वमथवा परम् ॥१५॥ उद्विजेत न रोगेभ्यो न च काक्षेच्चिकित्सितम् । अदीनस्तु सहेद देहाज्जानानो भेदमात्मनः ।। १६ ॥ अभूताल्पाणुचेलत्वे संस्तुतेषु तृणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेद् न तान् मृदन् ॥ १७ ॥ ग्रीष्मातपपरिक्लिन्नात् सर्वाङ्गीणाद् मलाद् मुनिः। नोद्विजेत न सिस्नासेद् नोद्वर्तयेत् सहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः। असत्कारे न दीनः स्यात् सत्कारे स्यान हर्षवान् ॥१९॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । न विषीदेद् न वा मायेत् प्रज्ञोत्कर्षमुपागतः॥ २०॥ ज्ञानचारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत ज्ञानस्य क्रमलाभवित् ॥ २१॥ जिनास्तदुक्तं जीवो वा धर्माधर्मों भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥२२॥ शारीरमानसानेवं स्वपरप्रेरितान् मुनिः। परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥२२॥ ज्ञानावरणीये वेध मोहनीयान्तराययोः। कर्मसूदयमाप्तेषु संभवन्ति परीषहाः ॥२४॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा। चर्या शय्या वधो