________________
योगशास्त्रम्
॥५४४ ॥
ODOO
श्रेयः प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याशंसा, मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते, न च कश्चित् श्लाघते, तदा तस्यैवंविधश्चित्तपरिणामो जायते, यदि शीघ्रं म्रिये इत्याशंसा तां त्यक्त्वा, निदानं च 'अस्मात् तपसो दुरनुचराज्जन्मान्तरे चक्रवर्ती, वासुदेव:, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्त्वा पुनः किंविशिष्टः ! समाधिसुधयोक्षितः समाधिः परमस्वास्थ्यं स एव सुधाऽमृतं तयोक्षितः सिक्तः ।। १५२ ।। परीषदेभ्यो निर्भयो जितपरीषद इत्यर्थः, तत्र मार्गाच्यवन-निर्जराथ परिषद्यन्त इति परीषहाः, ते च द्वाविंशतिः, तद्यथाः क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यार तिस्त्रीचर्य्यानिषद्याशय्याऽऽक्रोशवधयाश्चाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाज्ञानदर्शनलक्षणाः, तेषां जयश्चैवम् ;
क्षुदार्तः शक्तिभाक् साधुरेषणां नातिलङ्घयेत् । अदीनो विहलो विद्वान् यात्रामात्रोद्यतश्चरेत् ॥ १ ॥ पिपासितः पथिस्थोऽपि तत्वविद् दैन्यवर्जितः । न शीतमुदकं वाच्छेदेषयेत् प्रासुकोदकम् ॥ २ ॥ बाध्यमानोऽपि शीतेन त्वग्-वस्त्र-त्राणवर्जितः । वासोऽकल्प्यं नाददीत ज्वलनं ज्वलयेद् न च ॥ ३॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां चन स्मेरत् । वीजनं मज्जनं गात्राभिषेकादि च वर्जयेत् ॥ ४ ॥ दष्टोऽपि दशैर्मशकैः सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न कुर्यात् कुर्यादुपेक्षणम् ||५|| नास्ति वासोऽशुभं चैतद् तभेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानल्लाभालाभविचित्रताम् ॥६॥ न कदाप्यरतिं कुर्याद् धर्मारामरतिर्यतिः । गच्छंस्तिष्ठ॑स्तथासीनः स्वास्थ्यमेव समाश्रयेत् || ७ || दुर्ध्यानसङ्गपङ्का हि मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय चिन्तयेदिति
तृतीय प्रकाशः
॥५४४ ॥