SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगशास्त्रम् प्रकाश ॥५६५॥ प्रमादिनः । क्रूराश्छलैबहुबिधैर्वाधन्ते मानवान् पशून् ॥१०॥ मत्स्यादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥११॥ नानोपायमंगयुभिर्वश्चनप्रवणैर्जडाः । निषध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ १२ ॥ नभश्चरा भूरिभेदा वराका लावकादयः। बध्यन्ते माययाऽत्युग्रेः स्वल्पकासगृनुभिः ॥ १३ ॥ तदेवं सर्वलोकेऽपि परवश्वकतत्पराः । स्वस्य धर्म सद्गति च नाशयन्तः स्ववञ्चकाः ॥ १४ ॥ तथा, तिर्यगजातेः परं बीजमपवर्गपुरागला । विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥१५॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीत्वं प्राप जगत्पतिः ॥ १६ ॥ १६ ॥ इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशन्नाहतदार्जवमहौषध्या जगदानन्दहेतुना । जयेजगद्रोहकरी मायां विषधरीमिव ।। १७ ॥ यतो माया एवंविधा तत् तस्माद् मायां विषधरीमिव जयेत् । मायाविषधर्योः साधर्म्यमाह-जगदद्रोहकरी जगतो जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी ताम् । केन जयेत् ! आर्जवमहौषध्या आर्जवमकौटिल्यं तदेव महानुभावा ओषधिमहौषधिस्तया । उभयोः साधर्म्यमाह-जगदानन्दहेतुना जगतो जंगमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभवः प्रीतिविशेषो वञ्चकत्वपरिहारेण कषायजयाद् मोक्षरूपश्च तस्य हेतुना कारणेन । अत्रान्तरश्लोकाः आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः। आचारविस्तरः शेषो बाह्या अपि यदचिरे ॥१॥ स जिज्ञ ॥4841
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy