________________
योगशास्त्रम्
तृतीय प्रकाश
॥५४॥
निकंपो काउसगं तु पुव्वुत्तगुणसंजुओ । करेइ पव्वराईसु पंचमि पडिवनओ ॥ ४ ॥ छट्ठीए बंभयारी सो फासुआहार सत्तमी । वज्जे सावजमारंभं अहमि पडिवनओ ॥ ५ ॥ अवरेणावि आरंभं नवमी नो करावए । दसमीए पुणोद्दिढ फासुझं पि न भुंजए ॥ ६ ॥ एक्कारसीइ निस्संगो धरे लिंगं पडिग्गई । कयलोओ सुसाहु ब्व पुन्वुत्तगुणसायरो ॥ ७ ।। इति ॥ १४८।।
इदानीं पञ्चभिः श्लोकैर्विधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४९॥ | जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥१५०॥
त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोच्चैश्चतुःशरणमाश्रितः ॥१५१॥ | इहलोके परलोके जीविते मरणे तथा । त्यक्त्वाशंसा निदानं च समाधिसुधयोक्षितः ॥१५२
(१) निष्कम्पः कायोत्सगं तु पूर्वोक्तगुणसंयुतः । करोति पर्वरात्रीषु पञ्चमी प्रतिपन्नकः ॥ ४ ॥ षष्ठयां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेद् सावधमारम्भमष्टमी प्रतिपन्नकः ।। ५ ॥ अपरेणाप्यारम्भ नवम्यां नो कारयेत् । दशम्यां पुनरुद्दिष्टं प्रासुकमपि न भुञ्जीत ॥ ६ ॥ एकादश्यां निस्सङ्गो धरेल्लिङ्गं प्रतिग्रहम् । कृतलोचः मुसाधुरिव पूर्वोक्तगुणसादरः ॥ ७ ॥
1199Xolt