________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५३९।।
पालयन् सकलां रात्रिमास्त इति पञ्चमी । ५। एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठिता अवसेयाः, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी।६। सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी । ७ । अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी । ८ । नव मासान् प्रष्यैरप्यारम्भं न कारयतीति नवमी । ९ । दश मासानात्मार्थनिष्पन्नमाहारं न भुक्त इति दशमी । १०।
एकादश मासान् त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्तेषु गोकुलादिषु वसन् 'प्रतिमाप्रतिपनाय श्रमणोपासकाय भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी । उक्तं हि;दसणपडिमा नेआ सम्मत्तजुअस्स जा इहं बुंदी। कुग्गहकलंकरहिआ मिच्छत्तखओवसमभावा ॥ १ ॥ बीआ पडिमा णेया सुद्धाणुन्वयधारणं । सामाइअपडिमाओ सुद्धं सामाइयं पि अ ॥२॥ अहमीमाइपव्वेसु सम्म पोसहपालणं । सेसाणुढाणजुत्तस्स चउत्थो पडिमा इमा ॥ ३ ॥
(१) दर्शनप्रतिमा ज्ञेया सम्यक्त्वयुतस्य येह तनुः । कुग्रहकलङ्करहिता मिथ्यात्वक्षयोपशमभावात् ॥ १ ॥ द्वितीया प्रतिमा ज्ञेया शुद्धाणुव्रतपालन (धारण)म् । सामायिकप्रतिमातः शुद्धं सामायिकमपि च ॥ २॥ अष्टम्यादिपर्वसु सम्यक् पौषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थों प्रतिमेयम् ॥ ३ ॥
॥५३॥